सीताया कृतं अग्निस्तोत्रम् सीता उवाच

सीताया कृतं अग्निस्तोत्रम् सीता उवाच

-उपतस्थे महायोगं सर्वदोषविनाशनम् ।कृताञ्जली रामपत्नी साक्षात्पतिमिवाच्युतम् ॥ १॥

नमस्यामि महायोगं कृतान्तं गहनं परम् ।दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ २॥

नमस्ये पावकं देवं शाश्वतं विश्वतोमुखम् ।योगिनं कृत्तिवसनं भूतेशं परमम्पदम् ॥ ३॥

आत्मानं दीप्तवपुषं सर्वभूतहृदि स्थितम् ।तं प्रपद्ये जगन्मूर्त्तिं प्रभवं सर्वतेजसाम् ।महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम्। ४॥

प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् ।कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ ५॥

प्रपद्ये त्वां विरूपाक्षं भूर्भुवःस्वःस्वरूपिणम् ।हिरण्यमये गृहे गुप्तं महान्तममितौजसम् ॥ ६॥

वैश्वानरं प्रपद्येऽहं सर्वभूतेष्ववस्थितम् ।हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ ७॥

प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः शिवम् ।भार्गवाग्निपरं ज्योतिः रक्ष मां हव्यवाहन ॥ ८॥

इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी ।ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ ९॥

इति कूर्मपुराणे पूर्वभागे चतुस्त्रिंशाध्यायान्तर्गतंसीताया कृतं अग्निस्तोत्रं अथवा वह्न्यष्टकं संपूर्णम ।कूर्मपुराणे उत्तरभागे ३४/११६-१२४